जैनागमेषु जन्मभूमि-अयोध्यायाः वैभवम्
आचार्य-अनेकान्तकुमारो जैनः
(जैनदर्शनविभागः ,दर्शनसंकायः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः,नवदेहली-16
9711397716)
संस्कृतप्राकृतपालीभाषाभारतवर्षस्य गौरवम् ।आसु भारतीयजनमानसस्य ,मनन-चिन्तनानि, अनुभूतयश्च सन्निहिताः सन्ति।अत्र भारतीयसंस्कृतेः दार्शनिकचिन्तनस्य, संस्कारस्य, विज्ञानस्य, राजनीतेः समाजनीत्यादेश्च मार्मिकी अभिव्यक्तिर्भवति । वयम् सर्वे जानीमः यत् वैदिकपरम्पराया: विशालं वाङ्मयं समस्तासु विधासु उपलब्धं प्रसिद्धञ्चास्ति किन्तु संस्कृतप्राकृतजैनसाहित्यस्य समृद्धपरम्परायाः विषये प्रायः साहित्यिकजनाः अपरिचिताः सन्ति ।
जैनसंस्कृतप्राकृतसाहित्ये किं वा अस्ति ? इति बहवः विद्वान्स: पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः । जैनसंस्कृतप्राकृतसाहित्ये किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं विदुषां सामर्थ्यं न भवति अतएव जैनसंस्कृतप्राकृतसाहित्यस्य एतादृशी स्थितिः वर्तते ।
प्राचीनजैनसंस्कृतप्राकृतसाहित्ये धर्मनगर्याः अयोध्यायाः उल्लेखः असकृदभूत् । जैनकविः विमलसूरयः प्राकृतभाषायां पउमचरियं इति ग्रन्थं विरच्य रामायणस्य गुप्तरहस्यस्योद्घाटनं कृत्वा भगवतः रामस्य वीतराग्युदात्तचरित्रस्य अयोध्यायाश्च वर्णनं कुर्वन्ति तु तत्रैव आचार्ययतिवृषभाः तिलोयपण्णतिग्रन्थे अयोध्यां नैकेषां नाम्नां सम्बोधयन्ति । जैनसाहित्ये रामकथायाः सम्बन्धिताः नैके ग्रन्थाःनिगदिताः, यथा रविषेणकृतः ‘पद्यपुराणम्' (संस्कृते), स्वयम्भूकृतः ‘पउमचरिउ’ इति (अपभ्रंशे),संस्कृते गुणभद्रकृतम् उत्तरपुराणञ्च । जैनपरम्परानुसार भगवतो रामस्य मूलनाम ‘पद्म:' अपि आसीत्। अत्र ज्ञातव्यमस्ति यच्छास्त्रेषु अयोध्यामयुध्या, विनीता- नगरी, साकेतः, सुकौशलः, रामपुरी, विशाखा चादिनामेभ्यः उक्तवन्तः आचार्याः । जैनपरम्परायामिदमेकं शाश्वतं तीर्थं विद्यते ।
जैनपरम्परानुसारं वर्तमानकालिकानां चतुर्दशतीर्थङकरानां पञ्चानामियं जन्मभूमिरस्ति, नहि केवलमियदेव, अपितु इयमनन्तानन्तानां तीर्थङकराणां जन्मभूमिः विद्यते, प्रत्येक-चतुर्थकाले च चतुर्दशतीर्थङ्कराः प्रभुनियमेनायोध्यायामेव जायन्ते । साम्प्रति हुंडावसर्पिणीकालदोषात् इयं केवलं प्रथमतीर्थङ्करादिनाथस्य, द्वितीयस्याजितनाथस्य, चतुर्थस्य-अभिनन्दननाथस्य, पञ्चमसुमतिनाथस्य चतुर्दश-अनन्तनाथस्य च पञ्चानामेव जन्मभूमिरस्ति ।
आचार्येण यतिवृषभेण (1AD) तिलोयपण्णतिग्रन्थे लिखितम् -
जादो हु अवज्झाए ,उसहो मरुदेवि-णाभिराएहिं ।
चेत्तासिय-णवमीए,णक्खत्ते उत्तरासाढे ।। (4/533)
अर्थात् ऋषभनाथः अयोध्यायां, मरुदेवीनाम्नीमातुः नाभिरायश्च पितुः चैत्रकृष्णनवम्यां तिथौ, उत्तराषाढायां नक्षेत्र अजायत् ।
माघस्स सुक्क पक्खे ,रोहिणि-रिक्खम्मि दसमि-दिवसम्मि ।
साकेदे अजिय-जिणो, जादो जियसत्तु-विजयाहिं ।।(4/534)
अर्थात् तीर्थङ्कर-अजितनाथजिनेन्द्रः साकेतनगर्यां जितशत्रुविजयाभ्यां मातृपितृभ्यां माघशुक्लदशम्यां रोहिणी नक्षत्रे उत्पन्नो बभूव ।
माघस्स बारसीए ,सिदम्मि पक्खे पुणव्वसू-रिक्खे ।
संवर-सिद्धत्थाहिं ,साकेदे णंदणो जादो ।।(4/536)
अर्थात् अभिनंदनस्वामी साकेतनगर्यां संवरसिद्धार्थाभ्यां मातृपितृभ्यां माघशुक्ला द्वादशम्यां पुनर्वसुनक्षत्रे उत्पन्नो बभूव ।
मेघप्पहेण सुमईं साकेदपुरम्मि मंगलाए य ।
सावण -सुक्केयारसि-दिवसम्मि मघासु संजणिदो ।।(4/537)
अर्थात् तीर्थङ्कर-सुमतिनाथजिनेन्द्रः साकेतनगर्यां मेघसममंगलाभ्यां मातृपितृभ्यां श्रावणशुक्लाएकादशम्यां मघानक्षत्रे उत्पन्नो बभूव ।
जेट्ठस्स बारसीए ,किण्हाए रेवदीसु य अणंतो ।
साकेदपुरे जादो ,सव्वजसा-सिंहसेणेहिं ।।(4/546)
अर्थात् तीर्थङ्कर-अनन्तनाथजिनेन्द्रः अयोध्यापुर्यां सिंहसेनसर्वयशोभ्यां ज्येष्ठकृष्णद्वादश्यां रेवती नक्षत्रे च अवतीर्णः ।
आचार्यः संघदासगणिः (3AD) प्राकृतभाषायाँ विशाले गद्यात्मके कथाग्रन्थे ‘वसुदेवहिंडी' इत्यस्मिन् उल्लिखितवान् -
‘इहं सुरासुरिंद -विंदवंदियम-चलणारविंदो उसभो नाम पढमो राया जगप्पियामहो आसी | तस्स पुत्तसयं|दुवे पहाणा- भरहो बाहुबली य |उसभसिरी पुत्तसयस्स पुरसयं जणवयसयं च दाऊण पव्वइओ| तत्थ भरहो भरहवासचूडामणी,तस्सेव नामेण इहं ‘भरहवासं’ ति पवुच्चति,सो विणीयाहिवती | बाहुबली हत्थिणाउर –तक्खसिलासामी |’
अर्थात् अत्र सुरासुरवन्दितः चरणारविन्दवत् जगन्पितामहः ऋषभनाम्नः आदिमः राजा बभूव । तस्य शतपुत्राः आसन्, येषु मुख्यौ द्वौ आस्ताम् - भरतः बाहुबली च । ऋषभेण तावत् शतपुत्राः शटनगराणि जनपदाश्च दत्त्वा प्रव्रजितः। तेषु सूनुषु भरतः भारतस्य चूड़ामणिरासीत् । तस्य नाम्नि एवं अयं देशः भारतवर्षः अभिहित: । सः विनीताधिपतिरासीत् बाहुबली च तक्षशिलायाः स्वाम्यासीत् ।
गणिनी-आर्यिकाज्ञानमतीमहोदया ‘महातीर्थअयोध्या’ नामके पुस्तके लिखितवती यत् अगणिताः महापुरुषाः इमामयोध्यां प्राञ्जलीकृतवन्तः । आदिपुराणस्य द्वादशे पर्वणि आचार्यः जिनसेनः अयोध्यानगर्याः अतीवं वैभवशाली वर्णनं विस्तरेण कृतवान्, तस्यै एका छाया अस्मिन् श्लोके दरीदृश्यते -
संचस्करुश्च तां वप्रप्राकारपरिखादिभिः |
अयोध्यां न परं नाम्ना गुणेनाप्यरिभिः सुराः ||(12/76)
देवाः तां नगरीं वप्रात्, प्राकारात् परिवायाश्च आदितः सुशोभितवन्तः । तस्याः नगर्याः नाम अयोध्या आसीत् । सा केवलं नाममात्रेण नासीत् अयोध्या अपितु गुणेभ्यः आसीदयोध्या। अरिभिः योद्धुं न शक्या अर्थात् कश्चन शत्रुः योद्धुं जेतुञ्च न शक्नोति तां सा नामायोध्या ।
राजस्थानस्य अजमेरनगरमध्ये 'सोनी जी की नाशिया’इति विशालजैनमन्दिरमस्ति तस्मिन् मन्दिरे सिद्धकूटचैत्यालये अयोध्यानगर्याः स्वर्णरचना रचिताऽस्ति यां दर्शनाय पर्यटकाः देशविदेशेभ्यः आगच्छन्ति । मन्दिरेऽमुष्मिन् तीर्थङ्करऋषभदेवस्य प्रतिमां 1965 तमे वर्षे,ख्यातजैनविद्वान् पंडितसदासुखदासस्य निर्देशने रायबहादुरसेठमूलचंद-नेमिचंद-सोनी इति द्वौ विराजितवन्तौ आसीत् । तस्मात् कालादेव अत्र स्वर्णायोध्यायाः निर्माणं, आदिपुराणस्य वैभवशालिवर्णनानुसारम् आरम्भितम्। 1085 वर्षे कार्यमिदं पूर्णताङ्गतम् तथाऽस्य नाम स्वर्णम्, सोनी अथवा स्वर्णमन्दिरमभूत् ।
ये पञ्चतीर्थंकरा अयोध्यानगरे अजायन् तेषां स्मरणस्वरूपे अयोध्यातीर्थेव तेषां मूर्तयः पदचिन्हानि च स्थापितानि वर्तन्ते, दर्शनार्थिनः तेषां प्रतिदिनं पूजनमभ्यर्चना च कुर्वन्ति । साम्प्रति अयोध्यानगरे कटरास्थिते दिगम्बरजैनमन्दिरे द्वितीयः तीर्थकर-अजितनाथः, चतुर्थाभिनन्दननाथः, पञ्चमः सुमतिनाथः, एतेषां त्रयाणां स्मारकम् अस्ति।
सरयूनद्यास्तटे चतुर्दशतीर्थंकरस्यापि अनन्तनाथस्य मन्दिरम् टोंक इति च अस्ति। अयोध्यायामेव बक्सरियाटोलायां मस्जिदतः पृष्ठतः तीर्थकरादिनाथस्य एक लघुमन्दिरमस्ति यत्र तस्यैव टोंक इति स्थापितोऽस्ति ।
पंडितबलभद्रेण 'भारत के दिगम्बर जैनतीर्थ’ पुस्तकस्यादिमे भागे अत्र स्थितानि जैनमन्दिराणि विस्तरेण वर्णितानि । इतिहासकारैर्मन्यते यत् 1194 वर्षे मुहम्मद गोरी इत्यस्य भ्रात्रा मखदूमशाहजूसगोरर्या अयोध्याऽऽक्रान्ता तदानीमत्र स्थितं विशालमेकं मन्दिरं खण्डयित्वा तेन मस्जिद इति निर्मितम् ।
अत्रैकः कथानकः प्रसिद्धः अस्ति यत् कालान्तरे जैनाः मुगलशासकनवाबफैजुद्दीन याचितवंतः, इदं मन्दिरमस्माकमासीत्, तदा तेन प्रमाणानि आहूतानि -
अत्र च भूमिं कर्षयित्वा एक स्वस्तिकं, नारिकेलं चतुर्मुखीदीपकश्च प्राप्त:, तदा तेन शासकेन किञ्चिद् स्थानं प्रदत्तम्। जैना: अनुमतिं नीत्वा समीपे एव एक लघुमन्दिरं निर्माय तत्र ऋषभदेवस्य चरणचिन्हं स्थापितवन्तः । अत्रत्य कटरामोहल्ला इत्यस्मिन् अपि एकः टोंक इति अस्ति । अत्रैव जातौ ऋषभदेवस्य पुत्रौ, भरतबाहुबल्यौ त्योः चरणचिन्हानि स्थापितानि ।
1330 ईशवीं यावत् अयोध्यायामनेकानि मन्दिराणि अभूवन् । कटरामन्दिरे 1952 वर्षे तीर्थंकराणामादिनाथभरतबाहुबलीनां तिस्रः मूर्तयः विराजिताः सन्ति अथवा स्थापनं कारयित्वा सन्ति। 1965 तमे वर्षे रायगंजे रियासती- उद्यानस्य मध्ये एकं नवीनं मन्दिरं निर्मितं यस्मिन् 31 फुट (एकत्रिंशत् फुट)परिमाणात्मिका तीर्थंकरस्य ऋषभदेवस्प प्रतिमा रारजिते चकासते च । गणिनी ज्ञानमती मातुः प्रेरणातः 1994 तयं वर्षमिह महामस्तकाभिषेकोऽयोजितः त्रिचौबीसी-च मन्दिरं समवशरणमन्दिरश्च नवीनतया निर्मितम् ।
29 अगस्त 2003 तमे वर्षे 'टाइम्स ऑफ इण्डिया' इत्यस्मिन् समाचारपत्रे "ASI" इत्यस्यैका रिपोर्ट इति प्रकाशिता आसीत् ययाऽत्र खनने जैनमूर्तयः प्राप्ताः आसन् ।
प्रधानमन्त्रिनरेन्द्रमोदी महोदयानां मुख्यमंत्रियोगीमहोदयानां संयुक्तायासेन अद्य अयोध्या नगरी पुनर्जीविता भूता । तत्रत्या प्राचीना जैनसंस्कृतिरपि पुनः स्वगौरखं प्राप्स्यतीत्याशास्महे -
धण्णो णव अयोज्झा उसह-भरह-बाहुबली-अजिय-सुमइ ।
पवित्तो खलु जम्मभूमि अहिणंदण-अणंत-रामो य ।।
अर्थात् नवीनेयमयोध्या धन्याऽस्ति या प्रथम-द्वितीय-चतुर्थ-पञ्चम-चतुर्दशतीर्थंकराणां भगवतश्च रामस्य प्राञ्जल- जन्मभूमिरास्ति ।
टिप्पणियाँ