#भारतीयज्ञानपरंपरा
#Indian Knowledge system
प्रो.अनेकांतकुमारजैन:
भारतीयसभ्यतायाः आदिकालादेव जैनधर्मदर्शनस्य अस्तित्वस्य प्रमाणानि उपलभ्यन्ते । जैन आगमानुसारेण जैनधर्मः अनादिकालतः प्रवाहमानः । जैनमान्यतानुसारेण भूतकाले भिन्न चतुर्विंशतिः तीर्थङ्कराः आसन् , वर्तमानकाले ऋषभादि चतुर्विंशतिः तीर्थङ्कराः सन्ति तथा च भविष्यत्कालेऽपि चतुर्विंशतिः तीर्थङ्कराः भविष्यन्ति ।
भारतीयवाङ्मयस्य प्राचीनतायाः निर्देशकाः ग्रन्थाः ऋग्वेदादयः वेदाः सन्ति । तेष्वपि व्रात्यानां वर्णनं उपलभ्यन्ते,ते वस्तुतः जैनश्रमणाः एव सन्ति । उपनिषत्सु यत्र तत्र अपि श्रमणानां चर्चा उपलभ्यते । वेदेषु जैनतीर्थंकराणां मुख्यतः ऋषभदेवस्य अजितनाथस्य अरिष्टनेमेः च वर्णनं प्राप्यते । भारतगणतन्त्रस्य पूर्वराष्ट्रपतयः विश्वप्रसिद्धदार्शनिकाश्च डॉo सर्वपल्ली राधाकृष्णमहोदयाः अपि लिखन्ति-
‘There is evidence to show that so far back as the first century B.C. there were people who were worshipping Ṛṣabhadeva, the first tīrthaṅkara. There is no doubt that Jainism prevailed even before Vardhamāna or Pārśvanātha. The Yajurveda mentions the name of three Tīrthaṅkaras-Ṛṣabha, Ajitnātha and Ariṣṭanemi. The BhāgavataPurāṇa endorses the view that Ṛṣabha was the founder of Jainism.(Indian philosophy Vol I Page 287)
वैदिककालात् व्रात्यपरम्परायाः प्रमाणानि उपलभ्यन्ते,अतः ज्ञायते यत् जैनधर्मः विश्वस्य एकं प्राचीनतमं दर्शनमस्ति । मोहनजोदडो-हडप्पा-सभ्यताषु ध्यानमग्नयोगिनं तीर्थङ्कराणां मूर्तयः उपलभ्यन्ते । येन ज्ञायते यत् भारतीयपरम्परायां जैनध्यानयोगस्य प्रतिपादनं प्राचीनं विद्यते ।
प्राचीनकाले जैनधर्मस्य अभिधानं व्रात्यधर्मः इत्यपि आसीत् ।
न केवलं जैनसाहित्यं अपितु वैदिकसाहित्ये, पुराणे बहुशः उल्लिखितमस्ति यत् अस्माकं देशस्य अभिधानं भारतवर्षमिति ऋषभदेवस्य ज्येष्ठपुत्रभरतस्य नाम्ना एव विख्यातं आसीत् । ऋषभदेवानन्तरं त्रयोविंशतितीर्थंकराः संजाताः तेषु अन्तिमः तीर्थंकरः भगवान् महावीरः अस्ति । येन अखिलविश्वे जैनधर्मस्य पुनः प्रवर्तनं कृतं । चतुर्विंशतितमः तीर्थंकरमहावीरः विशिष्टता धारयति स्म,यैः सर्वेभ्यः जीवेभ्यः आध्यात्मिकोन्नतेः प्राणिमात्रहिताय शान्तेः धर्मनिरपेक्षतया च शिक्षा प्रदत्ता।
तीर्थंकरभगवतः महावीरस्य शिक्षा अद्यापि तथैव महत्त्वपूर्णा प्रासंगिका च अस्ति यथा तेषां समये षड्द्विसहस्त्रवर्षपूर्वं(२६००) आसन् । तैः मुख्यरूपेण या शिक्षा प्रदत्ताः तासु मुख्याः सन्ति अहिंसा, अनेकान्तवादः, अपरिग्रहवादश्च । तैः सर्वदा सत्यानुसन्धानस्य प्रेरणा प्रदत्ता । तैः उपदिष्टं यत् अस्माभिः सत्यस्य साक्षात्कारः करणीयः।
दर्शनान्तरेषु जैनदर्शनं नास्तिकमिति प्रतिपादितमस्ति,तस्य च कारणं वेदानां प्रामाण्य स्वीकाराभाव एव । किन्तु एतद् विषये ‘ नास्तिक’ शब्दो न युज्यते । यतो हि ‘अस्ति नास्ति दिष्टं मतिः’ इत्यनुसारं नास्ति दिष्टमिति मतिरस्ति यस्य स नास्तिक इत्येवार्थ शब्दोऽयं कथयति ,तदनुसारं च परलोकसत्तां स्वीकुर्वाणा आस्तिका अन्ये च नास्तिका इति वक्तुं युज्यते ।जैनदर्शनं तद्विषये नास्ति मौनभाक् ,अतो नास्ति नास्तिकं जैनदर्शनमित्येव साधीयः। अतैव अवैदिकदर्शनमिदं इति वक्तुं शक्यते ।
प्राकृतागमाः ( साहित्यम् )
सम्पूर्णजैनागमाः विषयदृष्ट्या चतुःषु अनुयोगेषु विभक्ता: सन्ति
(1) प्रथमानुयोगः- अस्मिन् अनुयोगे महापुरुषाणां चरित्रसम्बन्धिताः ग्रन्थाः, पुराणाः, कथादयः साहित्याः सम्मिश्रिताः सन्ति।
(2) करणानुयोगः - करणानुयोगस्यान्तर्गते लोकालोकस्य विभागः चतुर्गति-स्वरूपाणां प्रतिपादकाः भूगोल-खगोल-गणित, गुणस्थान-कर्मसिद्धान्तादि-विषयकाः सिद्धान्तग्रन्थाः सम्मिलिताः सन्ति।
(3) चरणानुयोगः - अस्मिन् चरणानुयोगे श्रमणानां श्रावकाणां च तेषां आचारविषयक प्रतिपादकाः ग्रन्थाः सम्मिलिताः सन्ति।
(4) द्रव्यानुयोगः- अत्र जीवाजीवादीनां तत्त्वानां, जीवपुद्गलादीनां, षड्द्रव्याणां, आध्यात्मप्रधान विषयोपयुक्तः प्रतिपादकाः तत्त्वज्ञाने दार्शनिकाः तथा आध्यात्मिकाः ग्रन्थाः समाविष्टाः सन्ति।
तीर्थङ्करमहावीरस्य मूलप्रवचनं प्राकृतभाषायां आगमसाहित्येषु संकलिताः सन्ति | आगमाः मूलरूपेण द्वादशाङ्गेषु विभक्ता: सन्ति | तद्यथा (१)आचाराङ्गसूत्रम् (२) सूत्रकृताङ्गम् (३) स्थानाङ्गसूत्रम् (४) समवायाङ्गसूत्रम् (५) भगवतीसूत्रम् (६) ज्ञातधर्मकथा (७) उपासकदशा (८) अन्तकृतदशा (९) अनुत्तरोपपादिकदशा (१०) प्रश्नव्याकरणम् (११) विपाकसूत्रम् (१२) दृष्टिवादः ।
द्वादशोपाङ्गसूत्राणि सन्ति –(१) उववाई, (२) रायपसेणी, (३) जीवाभिगमः, (४)प्र ज्ञापना, (५) जम्बूद्वीपप्रज्ञप्ति:, (६) चन्द्रप्रज्ञप्ति: , (७) सूर्यप्रज्ञप्ति:, (८) निरयावलिका, (९) कप्पवडिसीया,( १०) पुप्फीया, (११) पुप्फचुलीया, (१२) वह्निदशा ।
चत्वारि छेदसूत्राणि सन्ति –(१) व्यवहारसूत्रम्, (२) बृहद्कल्पः,( ३) निशियसूत्रम्, (४) दशाश्रुतस्कन्धः ।
चत्वारि मूलसूत्राणि सन्ति – (१) दशवैकालिकः, (२) उत्तराध्ययनम् , (३)नन्दीसूत्रम् , (४) अनुयोगद्वारम् ।
अन्ते द्वात्रिंशत्तमम् आवश्यकसूत्रम् वर्तते । श्वेताम्बर स्थानकवासिसम्प्रदायेन, तेरापन्थीसम्प्रदायेन च एतानि द्वात्रिंशत् सूत्राणि जैनागमः कथ्यते ।श्रीश्वेताम्बरेण मूर्तिपूजकेन जैनसमाजेन द्वात्रिंशत्सूत्रेषु अन्यानि त्रयोदश सूत्राणि सम्मेलितानि । ते पञ्चचत्वारिंशत्सूत्राणि आमनन्ति । तेषु सूत्रेषु अङ्गोपाङ्गानि तथैव आमनन्ति । ते मूलसूत्रेषु आवश्यकसूत्रम् अपि गणयन्ति । तदुपरान्ते चतुर्षु मूलसूत्रेषु पिण्डनिर्युक्तिं, ओधनिर्युक्तिं च अपि गणयन्ति । ते चतुर्षु छेदसूत्रेषु महानिशीयं, पञ्चकल्पं च अपि गणयन्ति ।
अन्ते दश प्रकरणसूत्राणि अपि सन्ति – (१) आतुरप्रत्याख्यानम्, (२) भक्तिपरीक्षा, (३) तन्दुलवैचारिकः, (४) चन्द्रवेदेयकः, (५) देवेन्द्रस्तवः, (६) गणिविद्या, (७) महाप्रत्याख्यानम्, (८) चतुःशरणम्, (९) श्रीस्तवः, (१०) संस्तारकः।
संस्कृतसाहित्यम्
जैनसंस्कृतकाव्यसाहित्ये किं वा अस्ति ? इति बहवः विद्वान्स: पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः । जैनसंस्कृतसाहित्ये किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं विदुषां सामर्थ्यं न भवति अतएव जैनसंस्कृतसाहित्यस्य एतादृशी स्थितिः वर्तते ।
जैनसंस्कृतसाहित्यस्य अध्ययनेन ज्ञायते यत् संस्कृतवाङ्गमये तस्य स्थानमतिविशिष्टमिति । संस्कृतसाहित्यस्य कायसंवर्धने जैनपरम्परायाः अतिविशिष्टं योगदानमस्ति । जैनाचार्यैरपि समस्त प्राचीनभाषाभिः सह संस्कृत-भाषायां विशालं साहित्यं निर्माय, संस्कृतभारत्याः विकासे अद्वितीयं योगदानं दत्तम् ।
संस्कृतभाषायां परिनिबद्धस्य जैनसाहित्यस्य प्राचुर्यं वरीवर्तिति । जैनाचार्यैः धर्मदर्शनातिरिक्तं काव्य-कोश-छन्दोsलङ्कार–ज्यौतिष-आयुर्वेद-मुद्राशास्त्र-व्याकरण-नाट्यशास्त्र-नीतिशास्त्र-आचारशास्त्रवास्तुकलाप्रभृतिविषयानासृत्य समस्तविधासु श्रेष्ठतमं विपुलग्रन्थाः रचिताः ।
अत्र समस्तविधासु केवलं काव्यविधायां विशेषरूपेण महाकाव्यम्, संधानमहाकाव्यम्, एकार्थकाव्यम्, दूतकाव्यम्, खण्डकाव्यम्, सूक्तिकाव्यम्, गद्यकाव्यम्, चम्पूकाव्यम्, नाट्यविधानाञ्च प्रमुख-शास्त्राणां नामोल्लेखमात्रं संक्षेपेण अवश्यमेव कर्तुं इच्छामि ।
महाकाव्येषु आचार्यः रविषेणकृतं ‘पद्मचरितम्’, जटासिंह नन्दिद्वारा निर्मितं ‘वारांगचरितम्’, वीरनन्दि कृतं ‘चन्द्रप्रभचरितम्’, अज्ञातकर्तृकं ‘वर्धमानचरितम्’, महाकविः असगकृतं ‘शान्तिनाथचरितम्’, महासेनकृतं ‘प्रद्युम्नचरितम्’, आचार्यः वादीराजकृतं ‘पार्श्वनाथचरितम्’, आचार्यः हेमचन्द्रप्रणीतं ‘कुमारपालचरितम्’ नामकं द्वयाश्रयमहाकाव्यम्, महाकविःहरिचन्द्रप्रणीतं ‘धर्मशर्माभ्युदय महाकाव्यम्’, महाकविः बाग्भट्टप्रणीतं ‘नेमिनिर्माण महाकाव्यम्’, द्वितीयगुणभद्रकृतं ‘धन्यकुमारचरितम्’, महाकविः अमरचन्द्र कृतं ‘बाल भारतम्’ तथा च ‘पद्मानन्दमहाकाव्यम्’ इति प्रमुखाणि महाकाव्यानि सन्ति ।
ऐतिहासिक काव्येषु महाकविः सर्वानन्दस्य ‘जगडू चरितम्’ तथा नयचन्द्रसूरिकृतं ‘हम्मीर महाकाव्यम्’ अतिमहत्त्वपूर्णानि महाकाव्यानि सन्ति ।
संधानकाव्येषु महाकविः धनञ्जयस्य ‘द्विसंधानमहाकाव्यम्’ संधानविधायाः प्रथमं जैनमहाकाव्यम् अस्ति। अथ च सूराचार्यकृतं ‘नाभेयनेमि’, ‘द्विसंधान महाकाव्यम्’ शान्तिराजप्रणीतं ‘पञ्चसंधानमहाकाव्यम्’ मेघविजयोपाध्याये निर्मितं ‘ सप्तसंधानमहाकाव्यम् उपलब्धानि सन्ति ।
सप्तसंधानमहाकाव्येषु तीर्थंकरः ऋषभदेवः , शान्तिनाथः, नेमिनाथः, पार्श्वनाथः , महावीरः तथा रामचन्द्रः च श्रीकृष्णः इत्येषां सप्तशलाकापुरुषाणां चरितं एकं सहैव निबद्धमस्ति।
एकार्थककाव्येषु वादीदेवसिंहसूरिकृतं ‘छत्रचूडामणि’ नामकं काव्यमतीव लोकप्रियमस्ति । तथैव धनेश्वरिसूरिकृतं ‘शत्रुन्जयमाहात्म्यं महाकाव्यम्’ , कविः जयशेखरसूरिकृतं ‘जैनकुमारसंभवम्’ प्रमुखानि काव्यानि सन्ति । संदेश अर्थात् दूतकाव्येषु आचार्यः जिनसेनप्रणीतं ‘पर्श्वाभ्युदय’ काव्यम् , कविः विक्रमरचितं ‘नेमिदूतकाव्यम्’, कविः मेरुतुङ्गकृतं ‘जैनमेघदूतं’, वादीचन्द्रसूरिकृतं ‘पवनदूतम्’ आदि लोकप्रिय-दूतकाव्यानि सन्ति ।
“गद्यं कवीनां निकषं वदन्ति” इत्युक्तनयेन गद्यकाव्यनिर्माणे कवीनामद्वितीयैव प्रतिभा दृश्यते । संस्कृतसाहित्ये यद्यपि कादम्बर्यादीनि गद्यकाव्यानि सुप्रसिद्धान्येव तथापि-अनतिप्रसिद्धानां बहूनां गद्यकाव्यानां परिशीलनमावश्यकम् ।
गद्यकाव्येषु जैनकविभिः लिखितं ‘गद्यकाव्यम्’ गद्यकाव्यानां अतिश्रेष्ठपरम्परा अस्ति । एषु नवमशताब्द्यां आचार्येण वादीभसिंहसूरिणा प्रणीतं ‘गद्यचिन्तामणि’ नामाभिहितं अत्युत्कृष्टं गद्यकाव्यमस्ति । संस्कृतस्य अनतिप्रसिद्धेषु तथाविधेषु गद्यकाव्येषु ‘गद्यचिन्तामणिः’ इत्याख्यं काव्यमद्वितीयम् । नाम्नैव ज्ञायते यदिदमेकं गद्यकाव्यमिति । कविना पण्डित वादीभसूरीना समग्रमपि काव्यमिदं प्रौढशैल्यां विरचितम् । संस्कृतसाहित्ये प्रकृतिवर्णननिपुणः कविः भवभूतिरेव । परन्तु गद्यचिन्तामणौ यादृशं प्रकृतिवर्णनं दृश्यते, तादृशमन्यत्र विरलतया द्रष्टुं शक्यते । गद्यचिन्तामणेः कादम्बर्याश्च मध्ये महदेव सादृश्यं वरीवर्ति । तथा च कादम्बर्याः शुकनासोपदेशं को वा विस्मरति ? तद्वदेव गद्यचिन्तामणावपि आर्यनन्देः उपदेशः प्रसिद्धः ।
तथैव एकादशशताब्द्यां समुत्पन्नेन महाकविः धनपालेन कृतं ‘तिलकमञ्जरी’ महाकाव्यमपि उत्कृष्टं काव्यमस्ति ।
चम्पूकाव्येषु महाकविना सोमदेवसूरिणा प्रणीतं ‘यशस्तिलकचम्पूमहाकाव्यम्’ तथा महाकविः हरिचन्द्रकृतं ‘जीवन्धरचम्पूकाव्यम्’, अर्हदास कृतं ‘पुरुदेवचम्पूकाव्यं’ च अत्युत्कृष्टं चम्पूकाव्यानि सन्ति ।
संस्कृतनाट्यसाहित्यस्य विकासेsपि जैनाचार्यैः महत्त्वपूर्णयोगदानं कृतम् । एषु प्रमुखरूपेण ‘विबुधानन्दनामकं’ नाटकं शीलाङ्काचार्येण लिखितमस्ति । महाकविना रामचन्द्रेण प्रायः नवसंख्यकासंस्कृतजैनरूपकाणां रचना कृता । तेषु सत्यहरिश्चन्द्रम्, नव विलासः, कौमुदीमित्रानन्दम् तथा ‘यादवाभ्युदयम्’ अति प्रसिद्धानि रूपकाणि सन्ति । अपि च महाकविः हस्तिमल्लेन ‘विक्रान्तकौरवम्’, ‘मैथिली-कल्याणम्’, ‘अञ्जनापवनञ्ज्यः’ तथा ‘सुभद्रानाटिका’ - इति चत्वारि अतिश्रेष्ठानि नाटकानि निर्मितानि ।
एवं प्रकारेण जैनाचार्यैः संस्कृतसाहित्यस्य विकासे महत्त्वपूर्णं योगदानं कृतम् । जैनाचार्येण प्रणीतं दार्शनिकं, सैद्धान्तिकं, तात्विकं, आध्यात्मिकं, आयुर्वेदः, ज्योतिषं, व्याकरणं, गणितं, कोशः, छन्दादि विविधसाहित्यविषयेषु विपुलमात्रायां साहित्युपलभ्यन्ते ।
संस्कृतालङ्कारसाहित्ये वाग्भटकवेः काव्यालङ्कारस्य हेमचन्द्राचार्यस्य च काव्यानुशासनस्य प्रमुखं स्थानमस्ति । धनञ्जयस्य ‘नाममाला’ हेमचन्द्राचार्यस्य च ‘अभिधानचिन्तामणिः’ कोशस्य क्षेत्रे विशिष्टं स्थानमधिकुरुतः । ज्यौतिषसाहित्ये भद्रबाहुभट्टारकस्य निमित्तशास्त्रेत्याख्यग्रंथो विशिष्टमस्ति । महावीरस्य गणितसारसंग्रहस्य गणितक्षेत्रे अतिशयवैशिष्ट्यमस्ति ।
जैनसंस्कृतसाहित्येSपि सन्ति नामाधुनाप्यनेके ग्रन्थाः येषां विषये वयमनभिज्ञाः यतोहि एतेषां ग्रन्थानाम मूलपाण्डुलिपयः ग्रन्थागारेषु स्थिताः सन्ति । यदा तासां अनुसन्धानं संपादनं प्रकाशनं भविष्यति तदा अवश्यमेव संस्कृतसाहित्याकाशे नूतन आयामस्य समुद्घाटनं भविष्यति ।
यद्यस्माकं अनुसन्धानस्य उद्देश्यः संस्कृतसाहित्यस्य अज्ञातग्रन्थानां प्रकाशनमस्ति तर्हि अस्मभ्यं जैनसंस्कृतसाहित्येषु सन्ति विशालक्षेत्रम् यतोहि संस्कृतभाषायां जैनमनीषिभिः विविधविषयकं साहित्यं प्रणीतमिति जैनसंस्कृतसाहित्यसागरो ह्यपरम्पारः |
दार्शनिकसाहित्यम्
प्रथमशताब्दि ईस्वीकाले जैनाचार्यः उमास्वामिना तत्त्वार्थसूत्रस्य रचना संस्कृतभाषायां विहिता । तत्त्वार्थसूत्रोपरि काले काले वृत्तिभाष्यादिभिर्विभूषितानि ग्रन्थान्तराणि प्राप्यन्ते ।
आचार्येण कुन्दकुन्देन प्राकृतभाषायां समयसार-प्रवचनसार-नियमसार–पञ्चास्तिकायः- अष्टपाहुड नामकाः ग्रन्था: विरचिताः । कुन्दकुन्दाचार्यस्य इमा रचनाः समेकितरूपेण जैनदर्शनस्य विश्वकोश इति मन्यते । द्वितीयशताब्द्यां आचार्यसमन्तभद्रोऽपि जैनदर्शनस्य क्षेत्रे अभिनवं चिन्तनं प्रस्तुतवान् ।अस्य रचनासु आप्तमीमांसा, युक्त्यनुशासनम्, स्वयम्भूस्तवः जिनस्तुतिशतकम्, रत्नकरण्डक-श्रावकाचारः, तत्त्वानुशासनम्, गन्धहस्तिमहाभाष्यं चेति प्रमुखाः रचनाः सन्ति ।आचार्यः सिद्धसेनदिवाकरः न्यायावतार-सन्मतितर्क- तत्त्वार्थटीका-प्रभृतीनां ग्रन्थानां रचनां कृतवान् ।
षष्ठशताब्द्यां तत्त्वार्थसूत्रमधिकृत्य आचार्येण देवनन्दिना अपरनाम पूज्यपादाचार्येण सर्वार्थसिद्धिरित्याख्या टीका उपलभ्यते |
सप्तमशताब्द्यां भट्ट-अकलङ्केन तत्त्वार्थसूत्रोपरि राजवार्तिकग्रन्थस्य प्रणयनं कृतम् । न्यायविनिश्चयः प्रमाणसंग्रहश्चापि अकलङ्कस्यैव जैनन्यायशास्त्रीयं रचनाद्वयं वर्तते । अष्टमशताब्द्यां हरिभद्रसूरिणाऽपि षड्दर्शनसमुच्चय-अनेकान्तवाद –जयपताकादयो ग्रन्था विरचिताः ।
आचार्यविद्यानन्देन नवमशताब्द्यां तत्त्वार्थसूत्रोपरि श्लोकवार्तिकं विरचितम् । वादिराजसूरिणाऽपि अस्यामेव शताब्द्यां पार्श्वनाथचरितम्, न्यायविनिश्चयश्चेति द्वौ ग्रन्थौ सृजितौ ।
दशमशताब्द्या अनन्तरं अवान्तरकालस्य प्रारम्भः स्वीक्रियते ।
आचार्यप्रभाचन्द्रः परीक्षामुखसूत्रग्रन्थोपरि अत्यन्तविस्तृतं टीका प्रमेयकमलमार्तण्डस्य रचना कृता । देवसूरिणाऽपि जैनन्यायक्षेत्रे प्रमाणानयनतत्त्वालोकालङ्कारः इत्याख्यस्य ग्रन्थस्य रचना कृता । द्वादशशताब्द्यां हेमचन्द्रेण काव्यव्याकरणयोः क्षेत्रे नूतनं साहित्यं सृष्टम् । प्रमाणमीमांसा हेमचन्द्रस्य सुप्रसिद्धा रचनाऽस्ति । विभिन्नविधासु रचनायाः कारणात् हेमचन्द्रः ‘कलिकालसर्वज्ञ:’ इत्युपाधिमधिगतवान् ।
त्रयोदशशताब्द्यां मल्लिषेणसूरिणः 'स्याद्वादमञ्जरी' विरचिता ।
जैनदर्शनक्षेत्रे एषा रचना पर्याप्तं लोकप्रियतामाप्तवती । इयं रचना हेमचन्द्रकृतस्य 'अन्ययोगव्यवच्छेद' इत्याख्यस्य द्वात्रिंशिकाग्रन्थस्य टीका विद्यते । पञ्चदशशताब्द्यां गुणरत्नेन हरिभद्ररचितं षड्दर्शनसमुच्चयं लक्ष्यीकृत्य टीकाग्रन्थो रचितः । सप्तदशशताब्द्यां च आचार्येण यशोविजयेन संस्कृतप्राकृत हिन्दीभाषासु अनेकेषां खण्डनमण्डनात्मकानां ग्रन्थानां सृजनं विहितम् । जैनतर्कभाषाऽस्या प्रमुखा कृतिरस्ति ।
एवं जैनदर्शन-साहित्य–सिंहावलोकनेन विज्ञायते यज्जैनदर्शनस्य आचार्या न्यायशास्त्रस्य गहनं ज्ञानम् अधिगतवन्त आसन् । अत एव तेषां भाषायां न्यायशैल्याः पूर्णः प्रभावो दृश्यते । ग्रन्थानाम् उपादेयतया सह भाषागतं वैशिष्ट्यमपि तत्र स्पष्टं प्रतिभाति ।
प्रमुखसिद्धान्ताः
जैनागमेषु जैनदर्शनस्य बहवः सिद्धान्ताः प्रतिपादिताः । तेषु रत्नत्रयं,अहिंसा ,अनेकान्तवाद- स्याद्वादः तथा च अपरिग्रहः इति विश्वप्रसिद्धाः सन्ति ।
रत्नत्रयं – मोक्षमार्गः
आध्यात्मिकसाधनायां जैनदर्शने त्रीणि मोक्षसाधनानि – सम्यग्दर्शन-ज्ञान-चारित्राणीति सन्ति । एतानि त्रीणि साधनानि जैनधर्मे रत्नत्रयमित्येतेन नाम्ना प्रथितानि सन्ति।रत्नत्रयमेव मोक्षमार्गः अस्ति । तत्त्वार्थसूत्रे प्रथमं सूत्रमस्ति - सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ।
येन येन प्रकारेण जीवादय: पदार्था व्यवस्थितास्तेन तेनावगम: सम्यग्ज्ञानम् । सम्यग्ज्ञाने नयप्रमाणविकल्पपूर्वको जीवादिपदार्थानां यथार्थावगम: भवति । स्वरूपे चरणं चारित्रम् । स्वात्मनि प्रवृत्तिरित्यर्थ: । यः सम्यग्ज्ञानयुक्तपुरुषः संसारकारणनिवृत्तिं उद्यतोस्ति सः कर्मादाननिमित्तभूतं समस्तक्रियोपरमः भूत्वा हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्यां च पापप्रणालिकाभ्यो विरतिः स्वीकरोति तथा स्वरूपे रमणं करोति । एतत् भवति सम्यग्चारित्रम् । अत्र सम्यग्विशेषणस्य प्रयोगः अज्ञानपूर्वकं आचरणस्य निवृत्त्यर्थं कृतम् । अत्र मार्गः एकैव अस्ति तथा सम्यग्दर्शनज्ञानचारित्राणि एते त्रीणि तस्य मार्गस्य सोपानानि सन्ति ।सम्यग्दर्शनेन विना ज्ञानम् चारित्रम् च सम्यक् न भवति ।
अहिंसा
जैनदर्शने अहिंसा यावत् विस्तृतसूक्ष्मगहनरूपेण विवेचिता तावत् व्यावहारिकरूपत्वमपि प्रदत्तम्। अतः सर्वप्रथमं हिंसायाः स्वरूपं प्रगटीकृतम् ‘प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा। अर्थात् प्रमादयोगपरिणतिसद्भावात् कस्यापि जीवस्य घातो वधो वा हिंसा तथा च हिंसापरित्याग एव अहिंसा । क्रोधमानमायालोभादिकषाययुक्तः रागादिभावसहितश्च परिणामः प्रमादः। एतैः प्रमादैः सह मनोवचनकायानां काभिः प्रवृत्तिभिः क्रियाभिर्वा स्वस्य परस्य वा द्रव्यप्राणान् भावप्राणान् वा घातं पीडनं वा हिंसा भवति । तद्विरतिः अहिंसा । वस्तुतो हिंसा-अहिंसा प्रत्येकस्य जीवस्य परिणामस्योपरि अवलम्बिते। तदनुसारेण यः कोऽपि सार्वभौमरूपेण मनोवचनकायैः कृतकारितानुमोदनैश्च परिपूर्णरूपेण पालयति, तदेव अहिंसामहाव्रतम्, तत्पालनं श्रमणः (मुनिः) करोति। यदि गृहस्थ एकदेशरूपेण पालयेत् तर्हि स श्रावकः कथ्यते, तदेव अहिंसाणुव्रतमुच्यते ।
श्रावकाय अहिंसाव्रतं व्यावहारिकं कर्तुं हिंसायाः विभाजनं चर्तृषु विभागेषु कृतम्। येन गृहस्थ निज धर्मसमाजपरिवारराष्ट्रादिविषयेषु दक्षो भवेत्, कर्तव्यविमुखो न स्यात् तथा निजश्रावकधर्मं सम्यक् परिपालयन् क्रमात् विकसन् अणुव्रततो महाव्रतं पर्यन्तं विकासयात्रां कृत्वा आत्मकल्याणं कुर्यात्।
अनेकान्त- स्याद्वादः
अनेकान्तपदे द्वौ शब्दौ स्त:, अनेक: (न एकः अर्थात् बहु: )+ अन्त: (धर्मः गुणः वा ) | एकवस्तुनि वस्तुत्वनिष्पादकपरस्परविरुद्धशक्तिद्वयप्रकाशनमनेकान्तः उच्यते | अनेके अन्ता धर्माः सामान्यविशेषपर्याया गुणा यस्येति सिद्धोऽनेकान्तः। अनेकान्तसिद्धान्तानुसारेण वस्तुनि परस्परविरुद्धाः अनेक गुणधर्माः स्वभावतः विद्यमानाः सन्ति ,एतत् वस्तुस्वरूपम् |
परस्परं विरोधिस्वरुपा अनन्तधर्माः गुणा: वा अवलोकनार्थं तावन्त्य एव दृष्ट्यो भवितव्याः। हठाग्रहात् यदि एकेनैव पक्षेण वस्तुनः सत्यतत्त्व पश्येत् तर्हि तत्र केवलं स्वमतसंग्रह एव भवेत् तथा परमतखण्डनं स्यात्। अनेकान्तो वैचारिकक्षेत्रेषु प्रसृतां हिंसां अपकर्षति। अद्य वैज्ञानिकयुगे वयं जानीम एव, पदार्थोऽचेतनो भवतु वा चेतनो वा, अनन्तगुणधर्मशक्तीनां संग्रहितोऽखण्डरूपात्मकोऽस्ति। तस्य अनन्तशक्तिषु धर्मेषु च केचित् परस्परसहयोगिनः, तथैव परस्परविरोधिनोऽपि ।
अहिंसायाः जीवननिर्वहणार्थं परिपालनार्थं च वैचारिकमतमतान्तराणां दूरीकरणार्थं जैनधर्मे अनेकान्तसिद्धान्तः प्रतिपादितः। अनेकान्तवादो वस्तुतत्त्वपरक-वैज्ञानिकानुभवाधारेण प्रवर्तते, यो मानवेभ्यः उदारः सम्यग्दृष्टिश्च प्रयच्छति। प्रत्येकेषु वस्तुषु अनन्तगुणधर्मा विद्यन्ते। तेषां विविधा दृष्टयो वर्तन्ते। नाना जीवा विभिन्नाभिर्दृष्टिभिः वर्णयन्ति, यतः सत्यं न कस्यापि धर्मस्य मानवस्य वा वैयक्तिकस्वामित्वं। सर्वेषां कथनं सहिष्णुतापूर्वकं श्रोतव्यं तथा यया अपेक्षया वर्णितं, सा अपेक्षा अवगन्तव्या, तदर्थं प्रयतितव्यम्। अस्माकं स्थूलविरोधकथनमपि केनापि पक्षेण सम्यक् भवितुं शक्नोति। अत उदारतायुक्तं समन्वयमतिना तत्कथनं श्रोतव्यं विचारः कर्तव्यश्च । तथा सति कदाग्रहः, हठवादः, पक्षपातश्चेति लवलेषमपि नास्ति। सकलपारस्परिक विवादस्य परिहरणार्थं अमोघ उपायः, यतः अनेकान्तवादानुसारेण परस्परविरुद्धावभासात्मक सापेक्षद्वयसत्यं केनापि पक्षेण सत्यमेव वर्तते। अनेन विचारेण पारस्परिकसंघर्षो विवादो वा न जायते।
अनेकान्तवादस्य वचनशैली स्याद्वादः वर्तते | द्वयो: मध्ये वाच्य-वाचक संबन्धः अस्ति |
‘स्याद्वादः’ इत्यस्य पदे द्वौ शब्दौ स्त: , स्यात् (कथञ्चित् ) + वादः (कथनं) अर्थात् सापेक्षदृष्ट्या कथनं | अनेकान्तविचारधारया प्रभावितो मनुजो यत् कथनं करोति, स एव स्याद्वादोऽस्ति । निजकथनमेव पूर्णतः सत्यं अपरेषां वचनं सर्वथा असत्यमिति एकान्तरूपेण नैव वदति । सापेक्षत्वमेव स्याद्वादस्य रहस्यम्। एतेनैव सत्यज्ञानं निरूपणं च शक्नोति। स्याद्वादसिद्धान्ते ‘ स्यात् अस्ति घटः’ ईदृशः सप्तभङ्गमाध्यमेन वस्तुस्वरूपस्य प्रतिपादनं भवति |
अपरिग्रहवादः
जैनधर्मः प्रतिपादयति - मूर्च्छा (आसक्तिर्वा) परिग्रहः । तत्परित्याग एवापरिग्रहः। एतदर्थं प्राप्तसम्पतः वस्तूनां समविभाजनं परमावश्यकम्। समविभाजनं विना कस्यापि जीवस्य मुक्तिर्नास्ति। एतस्मिन् सामाजिकस्यार्थिकस्य समत्वस्य अपि तत्त्वमन्तर्निहितम्।
गृहस्थधर्मेऽपरिग्रहव्रतस्य तात्पर्यार्थः- यत्र कस्मिन्नपि कार्ये मर्यादितसाधनाधारेण कार्यं परिपूरयति, तत्रामर्यादितानावश्यकसाधनानां संग्रहो मूर्खत्वमेव। यत्र अनावश्यकरूपेण संगृह्णीयात्, तत्र शोषणं विषमत्वं चायाति। यतः संग्रहणाय सहजीविनां शोषणमुत्पीडनमनैतिकत्वं चावलम्बते। अतः जैनदर्शने परिग्रहसिद्धान्तस्य अतीवमहत्त्वपूर्णं प्रतिपादितं तथा श्रावकस्यापरिग्रहाणुव्रताय परिग्रहपरिमाणव्रतमिति नामधेयं प्रदत्तम्।
वस्तुतो जैनदर्शनस्याचारविचारा आत्मानमनुलक्ष्यिणः। “अप्पा सो परमप्पा” आत्मैव परमात्मा इत्येवाध्यात्मस्य मूलाधारः। आत्मवादिजैनदर्शने वीतरागतायाः प्रधानत्वं परमात्मस्वरूपस्य प्राप्त्यर्थम्। जैनदर्शनानुसारेण रागद्वेषा एव संसारमार्गौ वीतरागत्वमेव मोक्षमार्गश्च । मोक्षमार्गः सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्रात्मकरत्नत्रयस्य एकरूपत्वेन संप्राप्नोति। अध्यात्मभूमौ जीवनस्यचरमविकास एव जैनसंस्कृतेरन्तिमलक्ष्यः। समीचीनसुखप्राप्तिरेव जीवनध्येयः। आत्मस्वातंत्र्यादेव सुखमिदमवाप्नोति। कर्मबन्धनयुक्तसंसारिजीवो नावगन्तुं शक्नोति। जगति इन्द्रियजन्यसुखमेव सत्यार्थसुखमिति मन्यते। जैनदर्शनं इन्द्रियातीन्द्रियसुखयोर्भेदविज्ञानं दर्शयित्वा निःश्रेयसोमार्गं प्रेरयति।
(आचार्यः ,जैनदर्शनविभागः,श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः,नवदेहली -16
संपर्कः – 9711397716 , anekant76@gmail.com )
टिप्पणियाँ