संस्कृतं नास्ति साम्प्रदायिकम्
आचार्य: अनेकान्त:, नवदेहली
drakjain2016@gmail.com
संस्कृतं कस्यचित् धर्मविशेषस्य, जातेः, क्षेत्रस्य वा भाषा इत्यज्ञानमेव, नान्यत्। भाषेयं कस्यचित् राजनीतिकदलस्य अपि न वर्तते। अस्यां भाषायां धार्मिकसाहित्यम् अतिरिच्य अपि विपुलं साहित्यं विद्यमानमस्ति। पूर्वप्रधानमन्त्रिणा मनमोहनसिंहेन अपि विश्वसंस्कृतसम्मेलने मम पुरतः विज्ञानभवने स्पष्टम् उक्तम् – ‘संस्कृतं भारतस्य आत्मा अस्ति’ इति। नेहरूमहोदयेन अपि संस्कृतस्य महत्त्वम् ‘Discovery of India’ इत्यस्मिन् स्वकीयपुस्तके आख्यातम्।
समस्या तदा भवति यदा जनाः संस्कृतं वेदेन वैदिकसंस्कृत्या च सहैव योजयन्ति। संस्कृतं कदापि साम्प्रदायिका भाषा न आसीत् । जैनबौद्धधर्मदर्शनयोः सहस्राधिका: ग्रन्थाः संस्कृतभाषायां निबद्धाः सन्ति। अद्य मोदीसर्वकारेण राष्ट्रभाषायै हिन्द्यै महत्त्वं प्रदत्तम् एवमेव च तेन संस्कृत-प्राकृत-पालिभाषाः अपि भारतीयशिक्षापद्धत्याः अङ्गत्वेन स्वीकृता:। तस्मात् अस्माभिः अपि तस्य सहयोगः करणीयः। आश्चर्यमिदं यत् यदा केचन संस्कृतभाषां बहिष्कुर्वन्ति स्म तदा ते कैश्चिदपि न वारिताः, परन्तु अद्य यदा संस्कृतस्य मङ्गलदिनानि आगच्छन्ति तदा तेषां शिरोवेदना जायते। पुनश्च, संस्कृतविद्वद्भिः एतदपि अवगन्तव्यं यत् वैदिकसंस्कृतिः खलु भारतस्य अन्यतमः महत्त्वपूर्णपक्षः, सम्पूर्णं भारतं नैव। श्रमणसंस्कृतेः आचार्यैः रचितस्य संस्कृतसाहित्यस्य उपेक्षां कृत्वा भारतीयसंस्कृते: स्वरूपाख्यानं न समीचीनम् । अद्य अधिकतमेषु संस्कृतविभागेषु विश्वविद्यालयेषु च जैनाचार्यरचितानि काव्यानि, नाटकानि, व्याकरणानि, पुराणादिग्रन्थाश्च पाठ्यक्रमेषु न पाठ्यन्ते । अस्य एकं कारणमेतदपि अस्ति यत् जैनाचार्यैः रचितानां ग्रन्थानां प्रतिपाद्यविषयाः वैदिकसंस्कृतेः विचारधारातः बहुत्र भिन्नाः।
निकटभविष्ये चिन्तनीयं तावत् संस्कृतकर्णधारै: यत् ते किं नूनमेव संस्कृतभाषायाः विकासं वाञ्छन्ति अथवा निजविचारधारायाः प्रभुत्वम् तथैव इच्छन्ति यथा उर्दू-फारसीभाषयोः व्याजेन जनाः इस्लामम् अग्रे सारयितुं यतन्ते।
एतादृक्प्रवृत्तिकारणात् सर्वाधिका हानिः भाषायाः अस्तित्वस्य भवति । धार्मिकसाहित्यकारणात् तस्यां भाषायां कश्चित् अधिकं स्निह्यति कश्चित् च अत्यधिकं घृणां करोति ।
भाषाविषये तु अस्माभिः साम्प्रदायिकचिन्तनात् उपरि अधिष्ठातव्यम् । यदि कयाचित् भाषया कस्यचित् धार्मिकसाहित्यस्य संवर्धनं कृतं तर्हि तदुपकारः एव तस्याः, न तु अपराधः। एवमेव अन्यासु जर्मनादि-भाषासु अपि उपेक्षाभावः न निधातव्य:। परञ्च यथास्थानं मुख्यत्वं गौणत्वन्तु भवतः एव इच्छानुगम्। जर्मनजनं कश्चित् वदति चेत् जर्मनभाषायाः स्थाने संस्कृतं स्थापयतु इति; तत् सम्भवति किम्? नैव । सर्वैः राष्ट्रैः सर्वतो प्रथमं निजभाषाणामेव विकासः कर्तव्यः, येन ताः भाषाः शिक्षितुं पठितुं ज्ञातुं वा ये इच्छन्ति तेषाम् अनुकूलता स्यात् ।
मम तु पूर्णविश्वासोऽस्ति यत् यः कोऽपि संस्कृतं प्राकृतञ्च जानाति स विश्वस्य कस्याः अपि भाषायाः ज्ञाता भवितुम् अर्हति ।
भारतीयसंस्कृतिं तन्मूल्यानि च सर्वावगमनयोग्यानि कर्तुं संस्कृतं सम्पूर्णभारतस्य भाषा प्राचीनकालादेव वर्तते। भारतस्य वैदिकसंस्कृतेः श्रमणसंस्कृतेश्च आचार्यैः दर्शनज्ञानविज्ञानानाम् अद्वितीयग्रन्थानां रचना संस्कृतभाषायां कृता। तथा च अद्यापि अनवरतरूपेण अस्यां भाषायां ग्रन्थरचना जायमाना वर्तते ।
सर्वजाति-धर्म-सम्प्रदायजनेभ्य: बहुलं व्यापकं च प्रदेयं संस्कृतस्य। अतः सर्वे संस्कृतं प्रति कृतज्ञतां प्रकटयन्ति । *सर्वेषां संस्कृतम् , सर्वेभ्यः संस्कृतम्*’, अनया उत्तमभावनया एव नवदेहल्यां महरौली समीपे छत्तरपुरमन्दिरे संस्कृतस्य सर्वतो विशालसंस्थया ‘संस्कृतभारत्या’ प्रथमवारं 09.11.2019 त: 11.11.2019 दिनाङ्कपर्यन्तं विश्वसंस्कृतसम्मेलनस्य विशालस्तरे आयोजनं करिष्यते, यस्मिन् सर्वधर्मजातिसम्प्रदायानां प्रमुखसंस्कृतानुरागिणः, अध्यापकाः, विद्वाँसः, प्रशिक्षकाः च देशविदेशेभ्यः एकत्रिताः भविष्यन्ति । संस्कृतभारती सर्वमतभेदेभ्यः उपरि विचिन्त्य संस्कृतं विश्वस्तरे सहजसम्भाषणमाध्यमरूपेण संस्थाप्य महत् कार्यं कुर्वाणा अस्ति। अस्मिन् सम्मेलने संस्कृतस्य व्यापकतायाः प्रभावस्य च विषये आगामिनीतयः अपि सुनिश्चिताः भविष्यन्ति । अस्माभिः सर्वैरेव अस्मिन् सम्मेलने सोत्साहं भागग्रहणं करणीयम् । मम तु मतम् इदं यत् विद्यालयेषु क्षेत्रीया, भारतीया, विदेशीया वा या कापि भाषा पाठ्येत, तत्र एकः अध्यायः संस्कृतभाषायाः, व्याकरणस्य, साहित्यस्य च परिचयात्मकः अवश्यं भवेत् । अनेन बालाः भारतीयसंस्कृतेः विज्ञानस्य च महता इतिहासेन परिचिताः भविष्यन्ति।
टिप्पणियाँ