संस्कृतं नास्ति साम्प्रदायिकम् आचार्य: अनेकान्त:, नवदेहली drakjain2016@gmail.com संस्कृतं कस्यचित् धर्मविशेषस्य, जातेः, क्षेत्रस्य वा भाषा इत्यज्ञानमेव, नान्यत्। भाषेयं कस्यचित् राजनीतिकदलस्य अपि न वर्तते। अस्यां भाषायां धार्मिकसाहित्यम् अतिरिच्य अपि विपुलं साहित्यं विद्यमानमस्ति। पूर्वप्रधानमन्त्रिणा मनमोहनसिंहेन अपि विश्वसंस्कृतसम्मेलने मम पुरतः विज्ञानभवने स्पष्टम् उक्तम् – ‘संस्कृतं भारतस्य आत्मा अस्ति’ इति। नेहरूमहोदयेन अपि संस्कृतस्य महत्त्वम् ‘Discovery of India’ इत्यस्मिन् स्वकीयपुस्तके आख्यातम्। समस्या तदा भवति यदा जनाः संस्कृतं वेदेन वैदिकसंस्कृत्या च सहैव योजयन्ति। संस्कृतं कदापि साम्प्रदायिका भाषा न आसीत् । जैनबौद्धधर्मदर्शनयोः सहस्राधिका: ग्रन्थाः संस्कृतभाषायां निबद्धाः सन्ति। अद्य मोदीसर्वकारेण राष्ट्रभाषायै हिन्द्यै महत्त्वं प्रदत्तम् एवमेव च तेन संस्कृत-प्राकृत-पालिभाषाः अपि भारतीयशिक्षापद्धत्याः अङ्गत्वेन स्वीकृता:। तस्मात् अस्माभिः अपि तस्य सहयोगः करणीयः। आश्चर्यमिदं यत् यदा केचन संस्कृतभाषां बहिष्कुर्वन्ति स्म तदा ते कैश्चिदपि न वारिताः, परन्त