सीधे मुख्य सामग्री पर जाएं

संस्कृतं नास्ति साम्प्रदायिकम्

संस्कृतं नास्ति साम्प्रदायिकम्

आचार्य: अनेकान्त:, नवदेहली
drakjain2016@gmail.com

           संस्कृतं कस्यचित् धर्मविशेषस्य, जातेः, क्षेत्रस्य वा भाषा इत्यज्ञानमेव, नान्यत्। भाषेयं कस्यचित् राजनीतिकदलस्य अपि न वर्तते। अस्यां भाषायां धार्मिकसाहित्यम् अतिरिच्य अपि विपुलं साहित्यं विद्यमानमस्ति। पूर्वप्रधानमन्त्रिणा मनमोहनसिंहेन अपि विश्वसंस्कृतसम्मेलने मम पुरतः विज्ञानभवने स्पष्टम् उक्तम् – ‘संस्कृतं भारतस्य आत्मा अस्ति’ इति।  नेहरूमहोदयेन अपि संस्कृतस्य महत्त्वम् ‘Discovery of India’ इत्यस्मिन् स्वकीयपुस्तके आख्यातम्। 
          समस्या तदा भवति यदा जनाः संस्कृतं वेदेन वैदिकसंस्कृत्या च सहैव योजयन्ति। संस्कृतं कदापि साम्प्रदायिका भाषा न आसीत् । जैनबौद्धधर्मदर्शनयोः सहस्राधिका: ग्रन्थाः संस्कृतभाषायां निबद्धाः सन्ति। अद्य मोदीसर्वकारेण राष्ट्रभाषायै हिन्द्यै महत्त्वं प्रदत्तम् एवमेव च तेन संस्कृत-प्राकृत-पालिभाषाः अपि भारतीयशिक्षापद्धत्याः अङ्गत्वेन स्वीकृता:। तस्मात् अस्माभिः अपि तस्य सहयोगः करणीयः। आश्चर्यमिदं यत् यदा केचन संस्कृतभाषां बहिष्कुर्वन्ति स्म तदा ते कैश्चिदपि न वारिताः, परन्तु अद्य यदा संस्कृतस्य मङ्गलदिनानि आगच्छन्ति तदा तेषां शिरोवेदना जायते। पुनश्च, संस्कृतविद्वद्भिः एतदपि अवगन्तव्यं यत् वैदिकसंस्कृतिः खलु भारतस्य अन्यतमः महत्त्वपूर्णपक्षः, सम्पूर्णं भारतं नैव। श्रमणसंस्कृतेः आचार्यैः रचितस्य संस्कृतसाहित्यस्य उपेक्षां कृत्वा भारतीयसंस्कृते: स्वरूपाख्यानं न समीचीनम् । अद्य अधिकतमेषु संस्कृतविभागेषु विश्वविद्यालयेषु च जैनाचार्यरचितानि काव्यानि, नाटकानि, व्याकरणानि, पुराणादिग्रन्थाश्च पाठ्यक्रमेषु न पाठ्यन्ते । अस्य एकं कारणमेतदपि अस्ति यत् जैनाचार्यैः रचितानां ग्रन्थानां प्रतिपाद्यविषयाः वैदिकसंस्कृतेः विचारधारातः बहुत्र भिन्नाः। 
        निकटभविष्ये चिन्तनीयं तावत् संस्कृतकर्णधारै: यत् ते किं नूनमेव संस्कृतभाषायाः विकासं वाञ्छन्ति अथवा निजविचारधारायाः प्रभुत्वम् तथैव इच्छन्ति यथा उर्दू-फारसीभाषयोः व्याजेन जनाः इस्लामम् अग्रे सारयितुं यतन्ते।
        एतादृक्प्रवृत्तिकारणात् सर्वाधिका हानिः भाषायाः अस्तित्वस्य भवति । धार्मिकसाहित्यकारणात् तस्यां भाषायां कश्चित् अधिकं स्निह्यति कश्चित् च अत्यधिकं घृणां करोति । 
           भाषाविषये तु अस्माभिः साम्प्रदायिकचिन्तनात्  उपरि अधिष्ठातव्यम् । यदि कयाचित् भाषया कस्यचित् धार्मिकसाहित्यस्य संवर्धनं कृतं तर्हि तदुपकारः एव तस्याः, न तु अपराधः। एवमेव अन्यासु जर्मनादि-भाषासु अपि उपेक्षाभावः न निधातव्य:। परञ्च यथास्थानं मुख्यत्वं गौणत्वन्तु भवतः एव इच्छानुगम्। जर्मनजनं कश्चित् वदति चेत् जर्मनभाषायाः स्थाने संस्कृतं स्थापयतु इति; तत् सम्भवति किम्? नैव । सर्वैः राष्ट्रैः सर्वतो प्रथमं निजभाषाणामेव विकासः कर्तव्यः, येन ताः भाषाः शिक्षितुं पठितुं ज्ञातुं वा ये इच्छन्ति तेषाम् अनुकूलता स्यात् ।
          मम तु पूर्णविश्वासोऽस्ति यत् यः कोऽपि संस्कृतं प्राकृतञ्च जानाति स विश्वस्य कस्याः अपि भाषायाः ज्ञाता भवितुम् अर्हति ।
           भारतीयसंस्कृतिं तन्मूल्यानि च सर्वावगमनयोग्यानि कर्तुं संस्कृतं सम्पूर्णभारतस्य भाषा प्राचीनकालादेव वर्तते। भारतस्य वैदिकसंस्कृतेः श्रमणसंस्कृतेश्च आचार्यैः दर्शनज्ञानविज्ञानानाम् अद्वितीयग्रन्थानां रचना संस्कृतभाषायां कृता। तथा च अद्यापि अनवरतरूपेण अस्यां भाषायां ग्रन्थरचना जायमाना वर्तते ।
              सर्वजाति-धर्म-सम्प्रदायजनेभ्य: बहुलं व्यापकं च प्रदेयं संस्कृतस्य। अतः सर्वे संस्कृतं प्रति कृतज्ञतां प्रकटयन्ति । *सर्वेषां संस्कृतम् , सर्वेभ्यः संस्कृतम्*’,  अनया उत्तमभावनया एव नवदेहल्यां महरौली समीपे छत्तरपुरमन्दिरे संस्कृतस्य  सर्वतो विशालसंस्थया ‘संस्कृतभारत्या’ प्रथमवारं 09.11.2019 त: 11.11.2019 दिनाङ्कपर्यन्तं विश्वसंस्कृतसम्मेलनस्य विशालस्तरे आयोजनं करिष्यते, यस्मिन् सर्वधर्मजातिसम्प्रदायानां प्रमुखसंस्कृतानुरागिणः, अध्यापकाः, विद्वाँसः, प्रशिक्षकाः च देशविदेशेभ्यः एकत्रिताः भविष्यन्ति । संस्कृतभारती सर्वमतभेदेभ्यः उपरि विचिन्त्य संस्कृतं विश्वस्तरे सहजसम्भाषणमाध्यमरूपेण संस्थाप्य महत् कार्यं कुर्वाणा अस्ति। अस्मिन् सम्मेलने संस्कृतस्य व्यापकतायाः प्रभावस्य च विषये आगामिनीतयः अपि सुनिश्चिताः भविष्यन्ति । अस्माभिः सर्वैरेव अस्मिन् सम्मेलने सोत्साहं भागग्रहणं करणीयम् । मम तु मतम् इदं यत् विद्यालयेषु क्षेत्रीया, भारतीया, विदेशीया वा या कापि भाषा पाठ्येत, तत्र एकः अध्यायः संस्कृतभाषायाः, व्याकरणस्य, साहित्यस्य च परिचयात्मकः अवश्यं भवेत् । अनेन बालाः भारतीयसंस्कृतेः विज्ञानस्य च महता इतिहासेन परिचिताः भविष्यन्ति।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

कुंडलपुर के तीर्थंकर आदिनाथ या बड़े बाबा : एक पुनर्विचार

*कुंडलपुर के तीर्थंकर आदिनाथ या बड़े बाबा : एक पुनर्विचार* प्रो अनेकान्त कुमार जैन,नई दिल्ली drakjain2016@gmail.com मैं कभी कभी आचार्य समन्तभद्र के शब्द चयन पर विचार करता हूँ और आनंदित होता हूँ कि वे कितनी दूरदर्शिता से अपने साहित्य में उत्कृष्ट से उत्कृष्ट शब्द चयन पर ध्यान देते थे । एक दिन मैं अपने विद्यार्थियों को उनकी कृति रत्नकरंड श्रावकाचार पढ़ा रहा था । श्लोक था -  श्रद्धानं परमार्थानामाप्तागमतपोभृताम् । त्रिमूढापोढमष्टांङ्गं सम्यग्दर्शनमस्मयम् ॥ इसकी व्याख्या के समय एक छात्रा ने पूछा कि गुरुजी ! देव ,शास्त्र और गुरु शब्द संस्कृत का भी है , प्रसिद्ध भी है ,उचित भी है फिर आचार्य ने उसके स्थान पर आप्त,आगम और तपस्वी शब्द का ही प्रयोग क्यों किया ? जब  कि अन्य अनेक ग्रंथों में ,पूजा पाठादि में देव शास्त्र गुरु शब्द ही प्रयोग करते हैं । प्रश्न ज़ोरदार था । उसका एक उत्तर तो यह था कि आचार्य साहित्य वैभव के लिए भिन्न भिन्न पर्यायवाची शब्दों का प्रयोग करते हैं जैसे उन्होंने अकेले सम्यग्दर्शन के लिए भी अलग अलग श्लोकों में अलग अलग शब्द प्रयोग किये हैं ।  लेकिन...

कैसे बढ़ेगी जैनों की घटती जनसँख्या ?- प्रो.डॉ अनेकांत कुमार जैन

कैसे बढ़े जैनों की घटती आबादी ? डॉ. अनेकांत कुमार जैन , नई दिल्ली , anekant 76 @gmail.com भारत में जैनों की जनसँख्या की विकास दर नगण्य रूप से सामने आ रही है | यह एक महान चिंता का विषय है | इस विषय पर सबसे पहले हम कुछ प्राचीन आंकड़ों पर विचार करें | तात्या साहब के. चोपड़े का मराठी भाषा 1945 में प्रकाशित एक महत्वपूर्ण पुस्तक है ‘ जैन आणि हिन्दू ’ , इस पुस्तक के पृष्ठ ४७ -४८ पर कुछ चौकाने वाले तथ्य लिखे हैं जिसका उल्लेख आचार्य विद्यानंद मुनिराज की महत्वपूर्ण पुस्तक ‘ महात्मा गांधी और जैन धर्म ’ में है – १. ईसा के १००० साल पहले ४० करोड़ जैन थे | २. ईसा के ५००-६०० साल पहले २५ करोड़ जैन थे   | ३. ईश्वी ८१५ में सम्राट अमोघवर्ष के काल में २० करोड़ जैन थे   | ४. ईश्वी ११७३ में महाराजा कुमारपाल के काल में १२ करोड़ जैन थे   | ५. ईश्वी १५५६ अकबर के काल में ४ करोड़ जैन थे | यदि इन आंकड़ो को सही माना जाय तो यह अत्यधिक चिंता का विषय है कि अकबर के काल से २५०० वर्ष पहले जैन ४० करोड़ थी और उसके समय तक यह संख्या ९०% की कमी के बाद महज १०% बची | इसके बाद अब ...

युवा पीढ़ी का धर्म से पलायन क्यों ? दोषी कौन ? युवा या समाज ? या फिर खुद धर्म ? पढ़ें ,सोचने को मजबूर करने वाला एक विचारोत्तेजक लेख ••••••••••••👇​

युवा पीढ़ी का धर्म से पलायन क्यों ? दोषी कौन ? युवा या समाज ? या फिर खुद धर्म ? पढ़ें ,सोचने को मजबूर करने वाला एक विचारोत्तेजक लेख ••••••••••••👇​Must read and write your view